Thursday, October 19, 2017

Baaji rao - Sanskrit essay

शिवरायबहिर्जीनाईकयो:चिंतनैव आधारिता अस्ति 
                          " ईस्रायलगुप्तचरसंघटना मोसाद "
जगति द्वितीया क्रमांका वृत्ति: अस्ति गुप्तचररुपेन कार्यम्। प्रायश: सर्वाणां देशानां गुप्तचरसंघटना: सन्ति। जनेषु तासां विषये कौतुहलं, आदरः, भयः, आतंकः ,तिरस्कारादय: नैकाः भावना:।
आपुरातनकालत: गुप्तचरा: विद्यन्ते।आर्यचाणक्यस्य              " "अर्थशास्त्र " नामनि ग्रंथे  विषयमेतमाधृत्य विस्तृतविवेचनं  अस्ति। 
 शिवरायस्य " गनिमीकावा " रणनीते: यशस्वीताया: प्रमुखसूत्रधार: आसीत् बुद्धिमान् धूर्तः च बहिर्जीनाईक: एवं तादृशा: नैकाः गुप्तचरा: ।
 अमेरिका रशिया इस्रायल च एतेषां देशानां
गुप्तचरसंघटना:  क्रमेण  सीआयए-केजीबी-मोसाद ।विश्वे  तासां विषये सादरभय: ।
  बाजीरावजाधव: महाराष्ट्रस्य सांगलीजनपदस्य पलूसग्रामवासी।षोडशवर्षैव भारतीयसैन्यदले वृत्तिं स्वीकृत्य अखंडदेशसेवाव्रतं आचरति।1999 तमे ख्रिस्ताब्दे कारगिलसमरे तस्य पराक्रमार्थं भारतसर्वकर: तं शौर्यपदकं प्रदत्तवान्। जागरुकबुद्धि: ,विशेषसाहसं,शौर्यं च एतैः गुणैः सः भारतीयगुप्तचरसंघटना(RAW) इत्यस्यां संस्थायां गुप्तचररुपेण अयोजत।1986 तमे ख्रिस्ताब्दे श्री  रामेश्वरनाथ कावमहोदयस्य नेतृत्वे सैन्यदलसक्षमीकरणार्थं एतस्याः स्थापना जाता।
  यदा अमेरिकायां आयोजिता जागतिकसुरक्षापरिषद् समाप्य बाजीराव विमानपत्तने गच्छन् आसीत् तदा एका विदेशीसुंदरी तं सम्मुखवती।द्वयोः परस्परं दृष्ट्वा
आनंदितौ  जातौ। बाजीराव: स्मितवदनेन तां नमस्कृतवान्। सा आसीत् .....विश्वप्रसिद्धअतिध्वंसकरीधूर्तगुप्तचरसंघटनाया: उच्चपदस्थाधिकारिणी सारहा।  प्रतिनमस्कारं कृत्वा  सा उक्तवती ," नमस्ते! भवान् अहं अत्र मम राष्ट्रपतिनिधीरुपेण उपस्थिता न  तु गुप्तचररुपेण।भवन्तं दृष्टवती अतः मेलनार्थं आगतवती। "  सा मोसादसंस्थायाः युवआक्रमकनिर्भीकअधिकारिणी । कतिपय वर्षपूर्वं तयोः मेलनं जातम्।
 मोसाद....एतादृशी गुप्तचरसंघटना....यदि तस्याः ताडनावली (hitlist) मध्ये कस्यापि नाम आगच्छेत् चेत् प्रत्यक्ष ईश्वर अपि तस्य रक्षणार्थं असमर्थः इति किंवदन्ती प्रसिद्धा। विश्वे असामान्यकर्तृत्वयुता अरिदमने क्रूरतमा सर्वोत्कृष्टगुप्तचरसंघटना का ? एतस्य प्रश्नस्य उत्तरं  निःसंदेहेन " मोसाद " इत्येव।
  मोसाद नाम साक्षात् मृत्यु: । राष्ट्रशत्रुं अन्वेष्य तं स्वदेशं आनीय क्रूरतया तस्य नाश : इति ध्येय:।शासनानंतरमेव सर्वे ज्ञातुं शक्नुवन्ति के के शासितवन्त: इति। संघटनाया: महद्वैशिष्ट्यं अधिकतमगौप्यम्। तस्मादेव अन्यदेशानां गुप्ताचराणां प्रवेश: अस्याम् अशक्यमेव। परं अस्याः गुप्तचरा: विश्वे सर्वासु संघटनासु वर्तन्ते।एकमेव उद्देश:
 सूचनासंग्रहणम्।
  एतादृशायां गुप्तचरसंघटनायां दशदिनात्मकप्रशिक्षणार्थं यदा बाजीराव इस्रायलं गतवान् तदा सारहया सह अमेलत् ,तस्याः उत्तमज्ञानं च  प्राप्नोत्।
  नैकवर्षानंतरमपि सारहा तं अभिज्ञातवती। विमानउड्डाणे 2-3 घण्टायावत् अवकाश: आसीत्।अतः उपाठहारगृहे तौ वार्तालापं कृतवन्तौ।
" भो सारहे! कथं भवती  एतावत्यवध्यनंतरमपि मां  अभिज्ञातवती?अहं तु चिन्तितवान् यत्  संपूर्णविश्वं यया संस्थया आतंकितं तस्याः अधिकारिणी तु स्वर्गैव निमग्ना स्यादिति। परं भवती तु अधुनापि मां स्मरति। 
अहो आश्चर्यं!"
 स्मितहास्येन सा उक्तवती, " भोः! नैव  भाषताम् एतादृशः।
वयं विश्वे सर्वान् विस्मरामः। परं भारतीयान् कदापि नैव। "
विदेशविदुषी मोसादसंस्थायाः अधिकारिणी .....अस्माकं राष्ट्रं प्रति तस्याः प्रेमादरं दृष्ट्वा मम नेत्रे अश्रूपुरीते।
सा अग्रे वदन्ती आसीत्, " एतद् न आश्चर्यम्।यदि  वयं विश्वे सर्वश्रेष्ठाः तथापि अस्माकं गुप्तचरसंस्थायाः आत्मा शिक्षा च भारतीयैव। प्रशिक्षणे अस्मान् भारतस्य ,महाराष्ट्रस्य इतिहासं निःशेषेण पाठयति।  अस्माकं
संस्थायाः मूलाधारः तु शिवरायस्य सर्वोत्कृष्ठः  गुप्तचरः बहिर्जीनाईकः। "
  बहिर्जीनाईकः.... नाम्नैव  बाजीरावस्य शिरः नतम्। शरीरं रोमांचितं।नयने अश्रूपूर्णे च।
" भवतः नयने अश्रूणि? प्रमादवशेन मया किमपि अनुक्तं उक्ता वा? "
नकारार्थं ग्रीवा कम्पयित्वा  अश्रूणि प्रमृज्य बाजीराव  अवफफदत् "  नैव सारहे! भवती  सादरेण यस्य नामोल्लेखं कृतवती तं बहिर्जीनाईकं तस्मिन् महाराष्ट्रैव अजाये$पि न सम्यक् ज्ञातुं शक्नोम्यहम्। केवलं अहमेव न प्रायश: बहवः जनाः बहिर्जीनाईकं न जानन्ति।शिवरायमपि वयं संपूर्णतया न  अनुभूतवन्तः।  अद्य तेषां नाम भवत्याः  सदृशी निर्भीकविदुषीमुखात्  श्रुत्वा अहं  लज्जां अन्वभवत्। "
 सारहा उक्तवती " भोः! महद्भाग्यवन्ताः  भारतीयाः।अस्माकं कार्यशैलीः  शिवरायबहिर्जीनाईकयोः नीत्याम् आधारिता।अस्माकं प्रत्येकं अधिकारिणं शिवरायस्य बहिर्जीनाईकस्य च इतिहास मुखोद्गतः।एष अनिवार्यः।अस्माकं प्रशिक्षणं तथैव वर्तते। "
 दीर्घवार्तालापं समाप्य तां नमस्कृत्य बाजीराव विमाने आरुढवान्।  मस्तिष्के केवलं एकमेव चिन्तनं....शिवरायः बहिर्जीनाईकः च। कियान् मुर्खाः वयं भारतीया!सकलविश्वस्य इस्रायलशत्रवः यस्याः आतंकेन भयभीताः सा " मोसादसंस्था " शिवरायस्य दैदिप्यमानं इतिहासं अवगम्य तस्मिन्नेव मार्गे मार्गक्रमणं करोति। परं   वयं यत्किंचित् दुर्बलराष्ट्रस्य आतंकः आसप्ततिवर्षेभ्यः मोनेन सहन्ते .....शिवरायस्य वंशजाः सन् अपि! अधुनापि
प्रतिदिनं अस्माकं युवकानां सीमारक्षकानां बलिदानं  भवति। 
बाजीरावस्य मस्तिष्के विचाराणां झंझावातः जातः। इदानीं तस्य मनसि एकमेव  लक्ष्यम्.....
    शिवरायबहिर्जीनाईकयोः इतिहासस्य सम्यक् अध्ययनम् अवगमनम् च।

No comments:

Post a Comment