Thursday, January 18, 2018

Kanya rakshanam - Sanskrit joke

सर्वकारेण प्रकाशिताः सङ्ख्याः कथयन्ति यत् आगामिमनुष्यसन्ततिः व्याघ्रं द्रष्टुं न शक्नुयात्।

किं तर्हि??

वयं किं कुर्याम ? अस्माभिः डायनासॉर् अपि कदा दृष्टः भोः??
तदर्थं वयं कदापि शोकं न प्रकटितवन्तः।

मूलप्रश्नः अस्ति अस्माकं देशे एकसहस्त्रेण युवभिः तुलनया केवलं ८४० युवत्यः सन्ति।

अतः वदामः--
*कन्यारक्षणं क्रियताम्ः।*

व्याघ्रान् वयं अनन्तरं रक्षेम।

यतो हि

द्विचक्रिकायाः पृष्ठवर्तिनि आसने भार्या एव उपवेशनीया न व्याघ्रः।

अपि च पत्नी इति उच्यते चेत् सा कस्यापि व्याघ्रस्य अपेक्षया न्यूनगुणा अस्ति वा??😝😜😜

No comments:

Post a Comment