Thursday, January 18, 2018

Tiruppavai pasuram 7 in sanskrit

Courtesy: Sri. Ramesh Prasad shukla 
।।श्रीमते रामानुजाय नमः।।

तिरुप्पावै पाशुर –7
------------------------

"कीशु कीशेन्रेङ्गु मानैच्चात्त ङ्गलन्दु,
पेशिन पेच्चरवं केट्टिलैयो पेय् प्पेण्णे
काशुं पिरप्पुं कलगलक्कैपेर्तु, वाशनरुङ्कुळलाय् च्चियर्, मत्तिनाल्
ओशै पडुत्त त्तयिररवं केट्टिलैयो,नायगप्पेण्पिळ्ळाय्   नारायणन् मूर्ति;
केशवनै प्पाडवुं नीकेट्टेकिडत्तियो तेशमुडैयाय्  तिरवेलोरेम्बावाय्॥

पदार्थः
--------

पेय् पेण्णे=मतिभ्रष्टे;एङ्गुम्=सर्वेषु दिक्षु; आनैच्चात्त्तं=भारद्वाजपक्षिणः;
कलन्दु=मिथः संश्लिष्य;कीशु कीशु' एन्रु=कीशु कीशु इति कलकलध्वनिना;
पेशिन=भाषित;पेच्चु=बृहत्; अरवं=शब्दं;केट्टिलैयो=न श्रुणोति वा?;
वाशं=सुगन्धभरित;अरुङ्कुळल्=केशपाशैः;(अलकाभिः);
आय्च्चियर्=गोपबालिकाः;
काशुं पिरप्पुं=(कण्ठेषु धृतं) माङ्गळ्यद्वयं(अच्चुत्तालि,अमैत्तालि इति तमिळे प्रोक्तं) कलकलक्कैपेर्तु=कलकल इति; ध्वनिभिः हस्तान् चालयन्तः;
मत्तिनाल्=मन्थानेन;
ओशैपडुत्त=मथित;तयिररवं=दधिध्वनिं;केट्टिलैयो=न श्रुणोति वा? नायगप्पेण्बिळ्ळाय्=हे महिळामणि!; नारायणन्मूर्ति=नारायणावतारं;केशवनै=श्रीकृष्णं;पाडवुं=सङ्कीर्तितकीर्तनानि;नी=त्वं;केट्टे=श्रुण्वन्त्यपि;
किडैत्तियो=निद्राति वा? 
तेशमुडैयाय्=हे तेजस्विनि! तिर=कवटमुद्घाटय।

(उद्गायतीनामरविन्दलोचनं व्रजाङ्गनानां दिवमस्पृशद्ध्वनिः। दध्नश्च निर्मन्थनशब्दमिश्रितो निरस्यते येन दिशाममङ्गळम्।विक्रेतुकामा किल गोपकन्या मुरारिपादार्पितचित्तवृत्तिः।
दध्यादिकं मोहवशा दगायत् गोविन्द दामोदर माधवेति।)

संस्कृते
---------

"कीशीति सर्वत इमे मिळिताः स्वनन्ति व्याघ्राटपक्षिण इदं न हि किं श्रुणोषि?
मुग्धे! समाङ्गळिकयुग्मरवं प्रसार्य हस्तौ सुगन्धचिकुराननगोपदारैः।
मन्थानमन्थ्य दधिमन्थनमन्द्रनादं नाऽलक्षयः किमुत नायकि! चोत्तमे त्वं।   नारयणावतरणस्य तु केशवस्य गीतं निशम्य शयिताऽसि,किमेतदर्हम्?
उद्घाटयारं  वरवर्णिनि श्री तेजस्विनि स्फुरितनेत्रि वरोरु रामे।
ध्येयः फलं च करणं च स एव कृष्णः वृत्तं निसर्गमधुरं व्रतमस्मदीयं॥"

तात्पर्यम्:
-----------

गोदादेवी एकैकां गोपकन्यां उत्थापयति शयनात्। श्रीकृष्णसंश्लेषसुखं जानन्तीं तद्गुणानुभवानन्दनिमग्नां काञ्चन कन्यामद्य शयनादुत्थापयति। प्रथमं तामुत्तिष्ठेत्यवदद्गोदादेवी।परन्तु सा "प्रभातं नाद्याप्यागतमिति कृष्णमनस्का निद्राति। तदा आण्डाळ् वदत्येवम्।("भरद्वाजपक्षिणो नाम चक्रवाकपक्षिणः। ते रात्रौ वियोगमनुभवन्ति। प्रभाते चक्रवाकदम्पती मिथः संयोगाय अन्वेषयतः। भाषणैः आह्वयतश्च)।तेषां
रुतानि प्रभातस्य सूचनमिति वदति।किञ्च,गोपकन्यानां दधिमथनशब्दान्,तासां हस्तकङ्कणानां ध्वनिं,तासां हरिकीर्तनानि न श्रूयन्ते 
वा श्रुतापि नोत्तिष्ठति वा इति वदन्ती
तामुत्थापयत्यस्मिन् पाशुरे।

श्रीमत्यै विष्णुचित्तार्य मनोनन्दनहेतवे,नन्दनन्दनसुन्दर्यै गोदायै नित्यमङ्गळम्।

                 प्रस्तुतिः –

                –रमेशप्रसादशुक्लः

                –जय श्रीमन्नारायणः

No comments:

Post a Comment